इह जगतीतले शिक्षा एव तादृशं विशिष्टं वस्तु यदस्मान् पशुत्वाद् उन्नीय मानवत्वं प्रति नयति । उच्यते च–  ‘शिक्षासुधारे सकलः सुधारः शिक्षाविकारे सकलो विकारः’ इति । नूनम् सत्यं एतत्– समाजे यदि शिक्षा शुद्धा, उन्नता, ज्ञानविज्ञानयुता च भवेत् तर्हि राष्ट्रस्य अन्ये नैकविधाः पक्षाः नितरां युगपत् च शुध्यन्ति ।

एनं एव अजेयं विचारं नित्यजीवनेन साकं साकल्येन अन्वीय बहुषु नानाविधेषु विषयेषु निगूढं ज्ञानं लोकेषु प्रकाशयितुं नेपालदेश–राजधानी–काठमाण्डपनगरस्य उन्नते अतिविस्तृते च क्षेत्रे कीर्तिपुरपरिसरे षष्टिवर्षेभ्यः प्राक् प्रतिष्ठापितं प्रज्ञायाः किञ्चन विशिष्टं केन्द्रं वर्तते त्रिभुवनविश्वविद्यालयः । स्थापनदृष्ट्या वा कार्यक्रमवैविध्येन उताहो विस्तारदृष्ट्या सर्वप्रकारेण वा असौ विश्वविद्यालयः अस्य देशस्य प्रथमः विपुलश्च विश्वविद्यालयः । आराष्ट्रं व्याप्तस्य अस्य विश्वविद्यालयस्य सन्ति पारेशतं विविधविषयगताः विभागाः यत्र च ओजस्विनः शैक्षणिकाः कार्यक्रमाः सेत्स्यन्ति । तेषु विभागेषु अन्यतमत्वं भजते अयं संस्कृतकेन्द्रीयविभागः।

पौरस्त्यज्ञानवारिधेः वितरणाय अनेन विभागेन दिनदिनशः शतशः  कार्यक्रमाः आरचिताः सन्ति । स्नातकोत्तरस्य पाठ्यसरणिम् आदाय प्रतिवत्सरं इतः छात्राः एम्. ए. पदवीधराः जायन्ते । अगाधे पौरस्त्यवाङ्मयनिकाये निहितं ज्ञानम् आधुनिकीं परिपाटिं पुरस्कृत्य प्रदानाय एतेन संस्कृतविभागेन काले काले बहुविधाः उपायाः आदृताः, तदनुगुणं शैक्षणिकविधिश्च निपुणं सम्पादितः ।

विश्वविद्यालयस्य आरम्भकालात् (२०१६ वैक्रमाब्दतः) एव असौ विभागः संस्कृतस्य उन्नयनाय नक्तन्दिवं नैकविधं कार्यसरणीम् अवलम्बते । अपि च एनं केन्द्रियविभागम् अन्तरापि त्रिभुवनविश्वविद्यालयसम्बद्धाः पञ्चशः विभागाः संस्कृतस्य सन्ति । असौ संस्कृतविभागः नूतनं चिन्तनम् अग्रे विदधानः सुदृढं पदं विदधाति । अधुना विश्वविद्यालयस्य सम्बद्धनिकायेन प्रमाणीकृत्य प्रस्तुतं पाठ्यक्रमम् आश्रित्य स्नातकस्तरस्य, स्नातकोत्तरस्य च कक्षाः प्रचलन्ति । केन्द्रीयविभागे तु केवलम् एम्. ए. स्तरस्य एव पाठाः सञ्जायन्ते । स्नातकस्य पाठ्यक्रमस्वरूपं तावत् इत्थं दृश्यते (वार्षिकपरीक्षाधारितम्)

–          प्रथमवर्षे– पद्यकाव्यम् एवं छन्दः ३११ पूर्णाङ्काः १००
–          द्वितीयवर्षे – नाटकम् एवं नाट्यशास्त्रम् ३१२ पूर्णाङ्काः १००
–          तृतीयवर्षे – गद्यकाव्यम् एवं सस्कृतसाहित्येतिहासः ३१४ पूर्णाङ्काः १००
–          ऐच्छिकम् अध्ययनम् ३०५ (उल्लिखितेषु एकं ग्राह्यम्)

काव्यशास्त्रम् निबन्धः अनुवादश्च ३१५–१ पूर्णाङ्काः १००
दर्शनम् ३१५–२ पूर्णाङ्काः १००
धर्मशास्त्रम् एवं नीतिशास्त्रम् ३१५–३ पूर्णाङ्काः १००
कार्यमूला शिक्षा ३१६ पूर्णाङ्काः १००

आहत्य अस्मिन् स्नातकस्तरे किरातार्जुनीयम्, मेघदूतम्, श्रीमद्भगवद्गीता, आदर्शदम्पतीसीतारामौ, प्रभृतयः काव्यग्रन्थाः अध्याप्यन्ते । एतेषु काव्यगतविषयेषु छात्राणां प्रवीणता सिध्यति । अपि च छन्दसां, छन्दःप्रक्रियायाश्चः संबोधः भविष्यति । भारवि—कालिदास–व्यासादिसंस्कृताचार्याणां रचनागतं पाटवं, तदीयं जीवनवृत्तं च अवगच्छन्ति ।

सम्प्रति स्नातकस्तरं लक्ष्यीकृत्य एतेन संस्कृतविभागेन सामिसत्राश्रितः पाठ्यक्रमश्च सविधि प्रकटितः विद्यते परन्तु सेमेष्टरपद्धतिम् अवलम्बिताः कक्षा इदानीं यावत् नैव प्रवृत्ताः ।
अद्यत्वे विभागस्यास्य अध्यक्षवर्यस्य महता आयासेन रात्रिन्दिवं प्रयतनेन च गतवत्सरात् आरभ्य जायमानाः योगकक्षा विभागस्य प्राच्यविज्ञानप्रियत्वं संसूचयन्ति ।
योगः संस्कृतवाङ्मयस्य विराट् निधिः विद्यते । कथञ्चनापि एनं यौगिकं पक्षं संरक्ष्य एव वयं भारतीयसम्पदं पुनः सशक्तम् उज्जीवयितुं क्षमामहे इति । एतदतिरिच्यापि संस्कृतदिवसे, (रक्षाबन्धनोत्सवे) अन्ताराष्ट्रीययोगदिवसे विविधसांस्कृतिकदिनेषु च सम्भाषण–गायनादीनां प्रतियोगिताः विभागेन सामोदम् आचर्यन्ते । पूर्वापेक्षया एषु दिनेषु विभागस्य कार्यबाहुल्यं श्रमसाफल्यं च दिने दिनकरदीप्तिरिव स्पष्टीभवति । एवं च साम्प्रतम् एम्. ए. स्तरस्य पाठ्यपर्यायस्य सङ्क्षेपतः दिङ्निर्देशः एवंविधः अस्ति –

            प्रथमे सत्रे – वैदिकं साहित्यम् ५५१
            प्रथमे सत्रे – संस्कृतव्याकरणम् ५५२
            प्रथमे सत्रे – संस्कृतसाहित्यम् ५५३
            प्रथमे सत्रे – भाषाविज्ञानम् ५५४

                        द्वितीयसत्रे – वैदिकं साहित्यम् २ ५५५
                        द्वितीयसत्रे – संस्कृतव्याकरणम् २ ५५६
                        द्वितीयसत्रे – संस्कृतसाहित्यम् २ ५५७
                        द्वितीयसत्रे – काव्यशास्त्रम् ५५८

                                    तृतीयसत्रे – दर्शनशास्त्रम् ५५९
                                    तृतीयसत्रे – नीतिशास्त्रम् ५६०
                                    तृतीयसत्रे – अभिलेखाः अनुसन्धानविधिश्च ५६१
                                    तृतीयसत्रे – अधस्तात् निर्दिष्टेषु एकः —
                                                क) लघुशोधप्रबन्धः
                                                ख) मौलिककृतिलेखनम्

तत्र च मौलिककृतिलेखनाय पञ्च विकल्पाः प्रस्तुताः सन्ति । अ) खण्डकाव्यलेखनम्, आ) कवितासङ्ग्रहः, इ) निबन्धसङ्ग्रहः ई) लघूपन्याससङ्ग्रहः उ) नाट्यकृतिलेखनम् ऊ) कथासङ्ग्रहः।

तृतीयसत्रे – अनुवादः ५६२
तृतीयसत्रे – पाण्डुलिपिसम्पादनम् ५६२
चतुर्थे सामिसत्रे
            वैदिकं व्याकरणं निर्वचनं च ५६३ १
            वैदिकं दर्शनम् ५६३ २
            वेदाध्ययनपरम्परा ५६३ ३
            वेदसंहिता, उपनिषच्च ५६३ ४

एवमेव संस्कृतसाहित्यम्
काव्यशास्त्रम्
संस्कृतव्याकरणम्
दर्शनशास्त्रम्
नीतिशास्त्रम् पुराणानि
एतेषु सर्वेषु निकायेषु प्रतिपत्रं वर्गीकरणं विषयप्रकृतिदृष्ट्या भिद्यते ।

इतः संस्कृतविषयम् अधिकृत्य लब्धस्नातकोत्तरपदवीकाः छात्राः चार्वाकबौद्धजैनवेदान्तादिषु दर्शनेषु योग्यतां भजन्ते । ऋग्वेदादीनां सपरिचयं कतिषुचित् मन्त्रेषु स्थितं भावं ज्ञास्यन्ति । एवं च – ब्राह्मणग्रन्थाः, आरण्यकम्, उपनिषदः, पुराणानि भारतवर्षस्येतिहासश्च एतेषु ग्रन्थरत्नेषु ज्ञानगतः कश्चन महान् आधारः भवति विद्यार्थिनाम् । एवं च यथाश्रमं तेषां प्रावीण्यसम्पादनं जायते । साहित्यनिकाये किरातार्जुनीयम्, शिशुपालवधम्, नैषधीयचरितम्, सौन्दरनन्दम्, हर्षचरितम्, दशकुमारचरितम्, साहित्यदर्पणः, दशरूपकम्, काव्यालङ्कारः, काव्यप्रकाशः, वक्रोक्तिजीवितम्, इत्यादयः काव्यग्रन्थाः काव्यसिद्धान्ताश्च प्रधानतया अङ्गीकृताः सन्ति ।

विभागस्य भावि उद्देश्यम्

विभागाध्यक्षस्य नेतृत्वे ऐदम्प्राथम्येन इतः केन्द्रीयसंस्कृतविभागात् विद्यावारिधिः इति उपाधये प्रस्तावनां विरचय्य सम्बद्धनिकायस्य सम्मतिम् आदाय पी. एच् डी. कार्यक्रमः सञ्चालयिष्यते । एतेन कृत्येन विश्वविद्यालयस्य संस्कृतशिक्षणं व्यापकत्वं समधिगमिष्यति । पी.एच्.डी.प्राप्तये इतरसंकृतविश्वविद्यालयानां द्वारं नास्थेयं भविष्यति ।

एवंरीत्या सकले विश्वस्मिन् अपि विश्वे साम्प्रतं पौरस्त्यवाङ्मयस्य संस्कृतस्य लोकप्रियत्वं दिव्यतया जायमानम् अस्तीत्यतः अस्माभिः अपि कुत्र कुत्र किं किं प्रचलत् अस्ति संस्कृतं निमित्तीकृत्य, इति विषये अन्तर्जालपुटकेषु संसूच्यते । यतो हि युगोऽयम् आधुनिकः । अतः महता प्रमाणेन अद्यत्वे उपलब्धं प्रविधिं प्रयुज्य संस्कृतप्रचारकार्यं चिकीर्षितम् अस्ति । इयं चास्माकं  महती सङ्कल्पना अपि च स्थापनाकालात् आरभ्य बहुभिः अस्मिन् विभागे महद् अवदानं प्रदत्तं वर्तते ।

बहूनां ज्ञानधनानां महतां विदुषां विज्ञानात्मकं श्रमं सम्प्राप्य एव अयं संस्कृतविभागः सुदृढं फलितः, पुष्पितश्च दृग्गोचरीभवति अद्यत्वे । तेषु विद्वत्सु ये विभागस्य प्रामुख्यम् अलभन्त ते क्रमशः डा. रामचन्द्र झा, डा. शशिनाथ ठाकुरः, डा. सरस्वती घिमिरे डा. हरिदेवः मिश्र इत्यादयः महानुभावा इह कार्यम् आसादितवन्तः । अन्ये च नैके गैर्वाणवाण्याः कुशला आराधकाः आसन् अत्र । सम्प्रति विभागस्य भौतिकी अवस्थापि उन्नता उत्तमा च दृश्यते । इतरैः विभागैः सह साक्षात्कारः, पारस्परिकः विमर्शश्च एषु दिनेषु नितरां प्रवृद्धः अस्ति । एवं च अनुसन्धानाय इच्छुकानां छात्राणां लघुगवेषणार्थं चात्र योजना निर्मीयमाणा विद्यते ।

अन्त्ये यदि राष्ट्रस्य ऐक्यं प्राच्यसंस्कृतेः अभिरक्षणम् नेपाली, नेवारी आदिभाषाणां प्रवर्धनम्, नैतिकसमाजस्य विरचनम्, विदेशेषु आस्माकीनः स्फुटं प्रभावः, उन्नतं जीवनम्, मनुष्येषु आध्यात्मिकं चेतः, वेदानां, पुराणां, गवां, नदीनां, देवालयानां संरक्षणम् संवर्धनं चेष्यते तर्हि उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत, वसुधैव कुटुम्बकम् , श्रुतं मे गोपाय इत्यादिवैदिकवाक्याभिप्रायानुगुणं परमम् उदात्तं व्यवहारं कामयामहे तर्हि नूनं संस्कृतविषयः अध्येतव्यः इति शम् ।